(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.178. अध्यायः 178
Mahabharata - Udyoga Parva - Chapter Topics
श्रीपरशुरामेण अम्बादिभिः सह कुरुक्षेत्रं गत्वा भीष्मानयनम् ॥ 1 ॥ रामेण स्वेन चोदनेपि भीष्मेण अम्बापरिग्रहानङ्गीकारे युद्धाय तस्याह्वानम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text

भीष्म उवाच। 5-178-0x(3903)(37982)
एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो।
उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः ॥ 5-178-1(37983)
काश्ये न कामं गृह्णामि शस्त्रं वै वरवर्णिनि।
ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते॥ 5-178-2(37984)
वाचा भीष्मश्च साल्वश्च मम राज्ञि वशानुगौ।
भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः ॥ 5-178-3(37985)
न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भामिनि ।
ऋते नियोगाद्विप्राणामेष मे समयः कृतः ॥ 5-178-4(37986)
अम्बोवाच। 5-178-5x(3904)
मम दुःखं भगवता व्यपनेयं यतस्ततः।
तच्च भीष्मप्रसूतं मे तं जहीश्वर मा चिरम् ॥ 5-178-5(37987)
राम उवाच। 5-178-6x(3905)
काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ।
शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम ॥ 5-178-6(37988)
अम्बोवाच। 5-178-7x(3906)
जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम्।
प्रतिश्रुतं च यदपि तत्सत्यं कर्तुमर्हसि ॥ 5-178-7(37989)
भीष्म उवाच। 5-178-8x(3907)
तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा ।
अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् ॥ 5-178-8(37990)
शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि ।
यदि भीष्मो रणे राम समाहूतस्त्वया मृधे ॥ 5-178-9(37991)
निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव ।
कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन ॥
वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो ।
इयं चापि प्रतिज्ञा ते तदा राम महामुने ॥ 5-178-10(37992)
जित्वा वै क्षत्रियान्सर्वान्ब्रह्मणेषु प्रतिश्रुता ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि ॥ 5-178-12(37993)
ब्रह्मद्विङ्भविता तं वै हनिष्यामीति भार्गव ।
शरणार्थे प्रपन्नानां भीतानां शरणार्थिनाम् ॥ 5-178-13(37994)
न शक्ष्यामि परित्यागं कर्तुं जीवन्कथंचन ।
यश्च कृत्स्नं रणे क्षत्रं विजेष्यति समागतम् ॥ 5-178-14(37995)
दीप्तात्मानमहं तं च हनिष्यामीति भार्गव ।
स एवं विजयी राम भीष्मः कुरुकुलोद्वहः ।
तेन युध्यस्व सङ्ग्रमे समेत्य भृगुनन्दन ॥ 5-178-15(37996)
राम उवाच। 5-178-16x(3908)
स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम।
तथैव त्त करिष्यामि यथा साम्नैव लप्स्यते ॥ 5-178-16(37997)
कार्यमेतन्महद्ब्रह्मन्काशिकान्यामनोगतम्।
गमिष्यामि स्वयं कन्यामादाय यत्र सः ॥ 5-178-17(37998)
यदि भीष्मो रणश्लाघी न करिष्यति मे वचः।
हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः ॥ 5-178-18(37999)
न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम्।
कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे ॥ 5-178-19(38000)
भीष्म उवाच। 5-178-20x(3909)
एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः।
प्रयाणाय मतिं कृत्वा समुत्तस्थौ महातपाः ॥ 5-178-20(38001)
ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः ।
हुताग्नयो जप्तजप्याः प्रतस्थुर्मञ्जिघांसया ॥ 5-178-21(38002)
अभ्यगच्छत्ततो रामः सह तैर्ब्रह्मवादिभिः ।
कुरुक्षेत्रं महाराज कन्यया सह भारत ॥ 5-178-22(38003)
न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् ।
तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः ॥ 5-178-23(38004)
ततस्तृतीये दिवसे समे देशे व्यवस्थितः ।
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः ॥ 5-178-24(38005)
तमागतमहं श्रुत्वा विषयान्तं महाबलम् ।
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् ॥ 5-178-25(38006)
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः।
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः ॥ 5-178-26(38007)
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् ।
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् ॥ 5-178-27(38008)
राम उवाच। 5-178-28x(3910)
भीष्म कां बुद्धिमास्थाय काशिराजसुता तदा।
अकामेन त्वया नीता पुनश्चैव विसर्जिता ॥ 5-178-28(38009)
विभ्रंशिता त्वया हीयं धर्मादास्ते यशस्विनी ।
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति ॥ 5-178-29(38010)
प्रत्याख्याता हि साल्वेन त्वया नीतेति भारत।
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत ॥ 5-178-30(38011)
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्।
न युक्तस्त्ववमानोऽयं राज्ञां कर्तुं त्वयाऽनघ ॥ 5-178-31(38012)
भीष्म उवाच। 5-178-32x(3911)
ततस्तं वै विमनसमुदीक्ष्याहमथाब्रुवम्।
नाहमेनां पुनर्दद्यां ब्रह्मन्भ्रात्रे कथञ्चन ॥ 5-178-32(38013)
साल्वस्याहमिति प्राह पुरा मामेव भार्गव।
मया चैवाभ्यनुज्ञाता गतेयं नगरं प्रति ॥ 5-178-33(38014)
न भयान्नाप्यनुक्रोशान्नार्थलोभान्न काम्यया।
क्षात्रं धर्ममहं जह्यमिति मे व्रतमाहितम् ॥ 5-178-34(38015)
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः।
न करिष्यसि चेदेतद्वाक्यं मे नरपुङ्गव ॥ 5-178-35(38016)
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः ।
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः॥ 5-178-36(38017)
तमहं गीर्भिरिष्टाभि पुनः पुनररिन्दम।
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः ॥ 5-178-37(38018)
प्रणम्य तमहं मूर्ध्ना भूयो ब्राह्मणसत्तमम् ।
अब्रुवं कारणं किं तद्यत्त्वं युद्धं मयेच्छसि ॥ 5-178-38(38019)
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्।
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव ॥ 5-178-39(38020)
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः ।
जानीषे मां गुरुं भीष्म गृह्णासीमां न चैव ह ॥ 5-178-40(38021)
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महामते।
न हि मे विद्यते शान्तिरन्यथा कुरुनन्दन ॥ 5-178-41(38022)
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः।
त्वया विभ्रंशिता हीयं भर्तारं नाधिगच्छति ॥ 5-178-42(38023)
तथा ब्रुवन्तं तमहं रामं परपुरंयम्।
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते ॥ 5-178-43(38024)
गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम् ।
प्रसादये त्वां भगवंस्त्यक्तैषा तु पुरा मया ॥ 5-178-44(38025)
को जातु परभावां हि नारीं व्यालीमिव स्थिताम् ।
वासयेत गृहे जानन्स्त्रीणां दोषो महात्ययः ॥ 5-178-45(38026)
न भयाद्वासवस्यापि धर्मं जह्यां महाव्रत ।
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु मा चिरम् ॥ 5-178-46(38027)
अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो।
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना ॥ 5-178-47(38028)
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥ 5-178-48(38029)
स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम् ।
गुरुवृत्तिं न जानीषे तस्माद्योत्स्यामि वै त्वया ॥ 5-178-49(38030)
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः ।
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव ॥ 5-178-50(38031)
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्।
यो हन्यात्समरे क्रुद्धं युध्यन्तमपलायिनम् ॥ 5-178-51(38032)
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः ।
क्षत्रियाणां स्थितो धर्म क्षत्रियोऽस्मि तपोधन ॥ 5-178-52(38033)
यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवर्तयन् ।
नाधर्मं समवाप्नोति न चाश्रेयश्च विन्दति ॥ 5-178-53(38034)
अर्थे वा यदि वा धर्मे समर्थो देशकालवित् ।
अर्थसंशयमापन्नः श्रोयान्निःसंशयो नरः ॥ 5-178-54(38035)
यस्मात्संशयितेऽप्यर्थेऽयथान्यायं प्रवर्तसे ।
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे ॥ 5-178-55(38036)
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् ।
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन ॥ 5-178-56(38037)
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह ।
द्वन्द्वे राम यथेष्टं मे सञ्जीभव महाद्युते ॥ 5-178-57(38038)
तत्र त्वं निहतो राम मया शरशतार्दितः ।
प्राप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे ॥ 5-178-58(38039)
स गच्छ विनिवर्तस्व कुरुक्षोत्रं रणप्रिय ।
तत्रैष्यामि महाबाहो युद्धाय त्वांतपोधन ॥ 5-178-59(38040)
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः ।
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव ॥ 5-178-60(38041)
तत्र राम समागच्छ त्वरितं युद्धदुर्मद ।
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव ॥ 5-178-61(38042)
यच्चापि कत्थसे राम बहुशः परिवत्सरे ।
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छ्रुणु ॥ 5-178-62(38043)
न तदा जातवान्भीष्मः क्षत्रियो वापि मद्विधः ।
पञ्चाञ्चातानि तेजांसि तृणेषु ज्वलितं त्वया ॥ 5-178-63(38044)
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत्।
सोऽहं जातो महाबाहो भीष्मः परपुरंजयः।
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः ॥ 5-178-64(38045)
ततो मामब्रवीद्रामः प्रहसन्निव भारत।
दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि संगरे ॥ 5-178-65(38046)
अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह।
भाषितं ते करिष्यामि तत्रागच्छ परंतप ॥ 5-178-66(38047)
तत्र त्वां निहतं माता मया शरशताचितम् ।
जाह्नवी पश्यतां भीष्म गृध्रकङ्कबलाशनम् ॥ 5-178-67(38048)
कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता ।
मया विनिहतं देवी रोदतामद्य पार्थिव ॥ 5-178-68(38049)
अतदर्हा महाभागा भगीरथसुताऽनघा ।
या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् ॥ 5-178-69(38050)
एहि गच्छ मया भीष्म युद्धकामुक दुर्मद ।
गृहाण सर्वं कौरव्य रथादि भरतर्षभ ॥ 5-178-70(38051)
इति ब्रुवाणं तमहं रामं परपुरंजयमक् ।
प्रणम्यक शिरसा राममेवमस्त्वित्यथाब्रवम् ॥ 5-178-71(38052)
एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया ।
प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् ॥ 5-178-72(38053)
ततः कृतस्वस्त्ययनो मात्रा च प्रतिनन्दितः।
द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते ॥ 5-178-73(38054)
रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः।
सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् ॥ 5-178-74(38055)
उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् ।
तत्कुलीनेन वीरेण हयशास्त्रविदा रणे ॥ 5-178-75(38056)
यत्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा ।
दंशितः पाण्डुरेणाहं कवचेन वपुष्मता ॥ 5-178-76(38057)
पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम ।
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥ 5-178-77(38058)
पाण्डुरैश्चापि व्यजनैर्वीज्यमानो नराधिप ।
शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः ॥ 5-178-78(38059)
स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात्।
कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ ॥ 5-178-79(38060)
ते हयाश्चोदितास्तेन सूतेन परमाहवे ।
अवहन्मां भृशं राजन्मनोमारुतरंहसः ॥ 5-178-80(38061)
गत्वाऽहं तत्कुरुक्षेत्रं स च रामः प्रतापवान् ।
युद्धाय सहसा राजन्पराक्रान्तौ परस्परम् ॥ 5-178-81(38062)
ततः सदर्शनेऽतिष्ठं रामस्यातितपस्विनः ।
प्रगृह्य शङ्खप्रवरंक ततः प्राधममुत्तमम् ॥ 5-178-82(38063)
ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः।
अपश्यन्त रणं दिव्यं देवाः सेन्द्रगणास्तदा ॥ 5-178-83(38064)
ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः।
वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह ॥ 5-178-84(38065)
ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः ।
प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् ॥ 5-178-85(38066)
ततो मामब्रवीद्देवी सर्वभूतहितैषिणी ।
माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम् ॥ 5-178-86(38067)
गत्वाऽहं जामदग्न्यं तु प्रयाचिष्ये कुरूद्वह ।
भूष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः ॥ 5-178-87(38068)
मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव ।
जामदग्न्येन समरे योद्धुमित्येव भर्त्सयत् ॥ 5-178-88(38069)
किं न वै क्षत्रियहणो हरतुल्यपराक्रमः ।
विदितः पुत्र रामस्ते यतस्तं योद्धुमिच्छसि ॥ 5-178-89(38070)
ततोऽहमब्रवं देवीमभिवाद्य कृताञ्जलिः।
सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे ॥ 5-178-90(38071)
यथा च रामो राजेन्द्र मया पूर्वं प्रचोदितः ।
काशिराजसुतायाश्च यथा कर्म पुरातनम् ॥ 5-178-91(38072)
ततः सा राममभ्येत्य जननी मे महानदी।
मदर्थं तमृषिं वीक्ष्य क्षमयामास भार्गवम् ॥ 5-178-92(38073)
भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत् ।
स च तामाह याचन्तीं भीष्ममेव निवर्तय।
न च मे कुरुते काममित्यहं तमुपागमम् ॥ 5-178-93(38074)
ततो गङ्गा सुतस्नोहान्मां सा पुनरुपागमत्।
नास्या अकरवं वाक्यं क्रोधपर्याकुलेक्षणः ॥ 5-178-94(38075)
अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः।
आह्वयामास च तदा युद्धाय द्विजसत्तमः ॥ ॥ 5-178-95(38076)

इति श्रीमन्महाभारते उद्योगपर्वमि अम्बोपाख्यानपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-178-2 काश्ये काशिराजकन्ये ॥ 5-178-48 अवलिप्तस्य दृप्तस्य। प्रतिपन्नस्य कार्यं भवति शासनमिति कo धo पाठः ॥ 5-178-53 यः पुमान् यस्मिन्नरे यथा प्रीत्या द्वेषेण वा वर्तते स नरस्तस्मिन् तथैव प्रीति द्वेषं वा प्रवर्तयन् ॥ 5-178-54 ननु त्वामर्थे प्रवर्तयन्नहं त्वयि प्रीतिमेव करोमीत्याशङ्क्याह अर्थेवेति। अर्थे द्युस्वाक्याद्दारकरणे धर्मे पितृप्रीत्यर्थं स्वीकृते ब्रह्मचर्ये विषये देशकालानुसारेण समर्थो विवेककुशलः। तत्र धर्मलोपेन गुरुवाक्यात् प्राप्यमाणोऽर्थः श्रेयानुत नेत्यर्थे संशयवानुत गुरुवाक्यविरोधेनापि पाल्यमानो धर्मः श्रेयानुत नेति धर्मे संशयवान्। एतयोर्मध्ये अर्थे संशयमापन्नोऽर्थमननुतिष्ठन् श्रेयान्। परिशेषात् धर्मे तु निःशंसयो धर्ममेवानुतिष्ठन् श्रोयानित्यर्थ ॥ 5-178-61 पौराणं पुराकृतम् ॥ 5-178-67 बलाः काकाः तेषामशनं अन्नभूतम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.